यदि मां तारयेदार्यः सुग्रीवः सत्यसंगरः। अस्माद् दुःखाम्बुसंरोधाच्छीतो भव हनूमतः
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः। जज्वाल मृगशावाक्ष्याः शंसन्निव शुभं कपेः
हनूमज्जनकश्चैव पुच्छानलयुतोऽनिलः। ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः
दह्यमाने च लाङ्गूले चिन्तयामास वानरः। प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः
दृश्यते च महाज्वालः करोति च न मे रुजम्। शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः
अथ वा तदिदं व्यक्तं यद् दृष्टं प्लवता मया। रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ
यदि तावत् समुद्रस्य मैनाकस्य च धीमतः। रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति
सीतायाश्चानृशंस्येन तेजसा राघवस्य च। पितुश्च मम सख्येन न मां दहति पावकः
भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः। कथमस्मद्विधस्येह बन्धनं राक्षसाधमैः
प्रतिक्रियास्य युक्ता स्यात् सति मह्यं पराक्रमे। ततश्छित्त्वा च तान् पाशान् वेगवान् वै महाकपिः
उत्पपाताथ वेगेन ननाद च महाकपिः। पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्
विभक्तरक्षःसम्बाधमाससादानिलात्मजः। स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्
ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्। विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः
वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्। स तं गृह्य महाबाहुः कालायसपरिष्कृतम्। रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः
स तान् निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्। प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशितादित्य इवार्चिमाली
thumb|चतुःपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुःपञ्चाशः सर्गः ॥५-
वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः। वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
किं नु खल्ववशिष्टं मे कर्तव्यमिह साम्प्रतम्। यदेषां रक्षसां भूयः संतापजननं भवेत्
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः। बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्
दुर्गे विनाशिते कर्म भवेत् सुखपरिश्रमम्। अल्पयत्नेन कार्येऽस्मिन् मम स्यात् सफलः श्रमः
यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः। अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः। भवनाग्रेषु लङ्काया विचचार महाकपिः
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः। वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्। अग्निं तत्र विनिक्षिप्य श्वसनेन समो बली
ततोऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्। मुमोच हनुमानग्निं कालानलशिखोपमम्
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः। शुकस्य च महातेजाः सारणस्य च धीमतः
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः। जम्बुमालेः सुमालेश्च ददाह भवनं ततः
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च। ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः। विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च
करालस्य विशालस्य शोणिताक्षस्य चैव हि। कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि