thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्। सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम्
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्। लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत्
रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः
सहस्त्रीबालवृद्धाश्च जग्मुः प्रीतिं निशाचराः। निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः। छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः
यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्। निबध्नन्ते दुरात्मानो न तु मे निष्कृतिः कृता
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि। किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्
लङ्का चारयितव्या मे पुनरेव भवेदिति। रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये। कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च
पीडां कुर्वन्ति रक्षांसि न मेऽस्ति मनसः श्रमः। ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्। शङ्खभेरीनिनादैश्च घोषयन्तः स्वकर्मभिः
राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्। अन्वीयमानो रक्षोभिर्ययौ सुखमिरंदमः
हनूमांश्चारयामास राक्षसानां महापुरीम्। अथापश्यद् विमानानि विचित्राणि महाकपिः
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्। रथ्याश्च गृहसम्बाधाः कपिः शृङ्गाटकानि च
तथा रथ्योपरथ्याश्च तथैव च गृहान्तरान्। चत्वरेषु चतुष्केषु राजमार्गे तथैव च
घोषयन्ति कपिं सर्वे चार इत्येव राक्षसाः। स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्
तं प्रदीपितलाङ्गूलं हनूमन्तं दिदृक्षवः। दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः
राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्। यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः
लाङ्गूलेन प्रदीप्तेन स एष परिणीयते। श्रुत्वा तद् वचनं क्रूरमात्मापहरणोपमम्
वैदेही शोकसंतप्ता हुताशनमुपागमत्। मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः
उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्। यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः। यदि वा त्वेकपत्नीत्वं शीतो भव हनूमतः
यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः। यदि वा भाग्यशेषो मे शीतो भव हनूमतः
यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्। स विजानाति धर्मात्मा शीतो भव हनूमतः