विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्
न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादिमं वधिष्यामि वानरं पापकारिणम्
अधर्ममूलं बहुदोषयुक्त- मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुष्व। दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि। विद्येत कश्चित्तव वीर तुल्य- स्त्वं ह्युत्तमः सर्वसुरासुराणाम्
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयाप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते
न चाप्यस्य कपेर्घाते कंचित् पश्याम्यहं गुणम्। तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः
साधुर्वा यदि वासाधुः परैरेष समर्पितः। ब्रुवन् परार्थं परवान् न दूतो वधमर्हति
अपि चास्मिन् हते नान्यं राजन् पश्यामि खेचरम्। इह यः पुनरागच्छेत् परं पारं महोदधेः
तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय। भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति
अस्मिन् विनष्टे नहि भूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ। युद्धाय युद्धप्रिय दुर्विनीता- वुद्योजयेद् वै भवता विरुद्धौ
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वया मनोनन्दन नैर्ऋतानां युद्धाय निर्नाशयितुं न युक्तम्
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु। मनस्विनः शस्त्रभृतां वरिष्ठाः कोपप्रशस्ताः सुभृताश्च योधाः
तदेकदेशेन बलस्य तावत् केचित् तवादेशकृतोऽद्य यान्तु। तौ राजपुत्रावुपगृह्य मूढौ परेषु ते भावयितुं प्रभावम्
निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम्। जग्राह बुद्ध्या सुरलोकशत्रु- र्महाबलो राक्षसराजमुख्यः
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥ ५.
thumb|त्रिपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ॥५-
तस्य तद् वचनं श्रुत्वा दशग्रीवो महात्मनः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्
सम्यगुक्तं हि भवता दूतवध्या विगर्हिता। अवश्यं तु वधायान्यः क्रियतामस्य निग्रहः
कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्। तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु
ततः पश्यन्त्वमुं दीनमङ्गवैरूप्यकर्शितम्। सुमित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः
आज्ञापयद् राक्षसेन्द्रः पुरं सर्वं सचत्वरम्। लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्
तस्य तद् वचनं श्रुत्वा राक्षसाः कोपकर्कशाः। वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः
संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः। शुष्कमिन्धनमासाद्य वनेष्विव हुताशनम्
तैलेन परिषिच्याथ तेऽग्निं तत्रोपपादयन्। लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानताडयत्
रोषामर्षपरीतात्मा बालसूर्यसमाननः। स भूयः संगतैः क्रूरै राक्षसैर्हरिपुङ्गवः