तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्
ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्
ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्
कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः
उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्
अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः
हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः
ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्