तदलं कालपाशेन सीताविग्रहरूपिणा। स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम्। दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान्। भोगान् दारांश्च लङ्कां च मा विनाशमुपानय
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान्। पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च। विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च
सिद्धेषु किंनरेन्द्रेषु पतत्त्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम्। सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा स्थातुं न शक्ता युधि राघवस्य
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-
स तस्य वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयद् वधं तस्य रावणः क्रोधमूर्च्छितः
तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्। विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः
निश्चितार्थस्ततः साम्ना पूज्यं शत्रुजिदग्रजम्। उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मे वाक्यमिदं शृणुष्व। वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः
राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्। तव चासदृशं वीर कपेरस्य प्रमापणम्
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः। परावरज्ञो भूतानां त्वमेव परमार्थवित्
गृह्यन्ते यदि रोषेण त्वादृशोऽपि विचक्षणाः। ततः शास्त्रविपश्चित्त्वं श्रम एव हि केवलम्
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद। युक्तायुक्तं विनिश्चित्य दूतदण्डो विधीयताम्
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। कोपेन महताऽऽविष्टो वाक्यमुत्तरमब्रवीत्
न पापानां वधे पापं विद्यते शत्रुसूदन। तस्मादिमं वधिष्यामि वानरं पापकारिणम्
अधर्ममूलं बहुदोषयुक्त- मनार्यजुष्टं वचनं निशम्य। उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थतत्त्वं वचनं शृणुष्व। दूता न वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्। न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसंनिपातः। एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य न नः श्रुतोऽस्ति
कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः। भवद्विधः कोपवशे हि तिष्ठेत् कोपं न गच्छन्ति हि सत्त्ववन्तः
न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु वापि। विद्येत कश्चित्तव वीर तुल्य- स्त्वं ह्युत्तमः सर्वसुरासुराणाम्
पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन। त्वयाप्रमेयेण सुरेन्द्रसङ्घा जिताश्च युद्धेष्वसकृन्नरेन्द्राः
इत्थंविधस्यामरदैत्यशत्रोः शूरस्य वीरस्य तवाजितस्य। कुर्वन्ति वीरा मनसाप्यलीकं प्राणैर्विमुक्ता न तु भोः पुरा ते