तद् भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः। परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि
नहि धर्मविरुद्धेषु बह्वपायेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्। शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि
न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन। राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्
तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुयायि च। मन्यस्व नरदेवाय जानकी प्रतिदीयताम्
दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्। उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः
लक्षितेयं मया सीता तथा शोकपरायणा। गृहे यां नाभिजानासि पञ्चास्यामिव पन्नगीम्
नेयं जरयितुं शक्या सासुरैरमरैरपि। विषसंस्पृष्टमत्यर्थं भुक्तमन्नमिवौजसा
तपःसंतापलब्धस्ते सोऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः
अवध्यतां तपोभिर्यां भवान् समनुपश्यति। आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्
सुग्रीवो न च देवोऽयं न यक्षो न च राक्षसः। मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः। तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि
न तु धर्मोपसंहारमधर्मफलसंहितम्। तदेव फलमन्वेति धर्मश्चाधर्मनाशनः
प्राप्तं धर्मफलं तावद् भवता नात्र संशयः। फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे
जनस्थानवधं बुद्ध्वा वालिनश्च वधं तथा। रामसुग्रीवसख्यं च बुद्ध्यस्व हितमात्मनः
कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्। लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः
रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ। उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता
अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः। न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः
यां सीतेत्यभिजानासि येयं तिष्ठति ते गृहे। कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्
तदलं कालपाशेन सीताविग्रहरूपिणा। स्वयं स्कन्धावसक्तेन क्षेममात्मनि चिन्त्यताम्
सीतायास्तेजसा दग्धां रामकोपप्रदीपिताम्। दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्
स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रातॄन् सुतान्हितान्। भोगान् दारांश्च लङ्कां च मा विनाशमुपानय
सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम। रामदासस्य दूतस्य वानरस्य विशेषतः
सर्वाल्ँ लोकान् सुसंहृत्य सभूतान् सचराचरान्। पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः
देवासुरनरेन्द्रेषु यक्षरक्षोरगेषु च। विद्याधरेषु नागेषु गन्धर्वेषु मृगेषु च
सिद्धेषु किंनरेन्द्रेषु पतत्त्रिषु च सर्वतः। सर्वत्र सर्वभूतेषु सर्वकालेषु नास्ति सः
यो रामं प्रति युध्येत विष्णुतुल्यपराक्रमम्। सर्वलोकेश्वरस्येह कृत्वा विप्रियमीदृशम्। रामस्य राजसिंहस्य दुर्लभं तव जीवितम्
देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः। रामस्य लोकत्रयनायकस्य स्थातुं न शक्ताः समरेषु सर्वे
ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा। इन्द्रो महेन्द्रः सुरनायको वा स्थातुं न शक्ता युधि राघवस्य
स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः। दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५-