दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्। आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरम्
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम्
अथवा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः
जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया
वनं राक्षसराजस्य दर्शनार्थं विनाशितम्। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः
रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे। अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि
पितामहादेष वरो ममापि हि समागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्
विमुक्तोऽप्यहमस्त्रेण राक्षसैस्त्वभिवेदितः। केनचिद् रामकार्येण आगतोऽस्मि तवान्तिकम्
दूतोऽहमिति विज्ञाय राघवस्यामितौजसः। श्रूयतामेव वचनं मम पथ्यमिदं प्रभो
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥५-
तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्
अहं सुग्रीवसंदेशादिह प्राप्तस्तवान्तिके। राक्षसेश हरीशस्त्वां भ्राता कुशलमब्रवीत्
भ्रातुः श्रृणु समादेशं सुग्रीवस्य महात्मनः। धर्मार्थसहितं वाक्यमिह चामुत्र च क्षमम्
राजा दशरथो नाम रथकुञ्जरवाजिमान्। पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः
ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियतरः प्रभुः। पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्
लक्ष्मणेन सह भ्राता सीतया सह भार्यया। रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः
तस्य भार्या जनस्थाने भ्रष्टा सीतेति विश्रुता। वैदेहस्य सुता राज्ञो जनकस्य महात्मनः
मार्गमाणस्तु तां देवीं राजपुत्रः सहानुजः। ऋष्यमूकमनुप्राप्तः सुग्रीवेण च संगतः
तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्। सुग्रीवस्यापि रामेण हरिराज्यं निवेदितुम्
ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्। सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः
त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः। स तेन निहतः संख्ये शरेणैकेन वानरः
स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः। हरीन् सम्प्रेषयामास दिशः सर्वा हरीश्वरः
तां हरीणां सहस्राणि शतानि नियुतानि च। दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे
वैनतेयसमाः केचित् केचित् तत्रानिलोपमाः। असङ्गगतयः शीघ्रा हरिवीरा महाबलाः