शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम्। नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम्
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः। भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः
महति स्फाटिके चित्रे रत्नसंयोगचित्रिते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात्समुपसेवितम्
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम्। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः। आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्
अपश्यद् राक्षसपतिं हनूमानतितेजसम्। वेष्टितं मेरुशिखरे सतोयमिव तोयदम्
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत
भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्। मनसा चिन्तयामास तेजसा तस्य मोहितः
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः। अहो राक्षसराजस्य सर्वलक्षणयुक्तता
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः। स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः। सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्। इति चिन्तां बहुविधामकरोन्मतिमान् कपिः। दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः
thumb|पञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चाशः सर्गः ॥५-
तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्। रोषेण महताऽऽविष्टो रावणो लोकरावणः
शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसा वृतम्। किमेष भगवान् नन्दी भवेत् साक्षादिहागतः
येन शप्तोऽस्मि कैलासे मया प्रहसिते पुरा। सोऽयं वानरमूर्तिः स्यात्किंस्विद् बाणोऽपि वासुरः
स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्। कालयुक्तमुवाचेदं वचो विपुलमर्थवत्
दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्। वनभङ्गे च कोऽस्यार्थो राक्षसानां च तर्जने
मत्पुरीमप्रधृष्यां वै गमने किं प्रयोजनम्। आयोधने वा कं कार्यं पृच्छ्यतामेष दुर्मतिः
रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्। समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
यदि तावत् त्वमिन्द्रेण प्रेषितो रावणालयम्। तत्त्वमाख्याहि मा ते भूद् भयं वानर मोक्ष्यसे
यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च। चारुरूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्
विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरम्
तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम्
अथवा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य च। धनदेन न मे सख्यं विष्णुना नास्मि चोदितः
जातिरेव मम त्वेषा वानरोऽहमिहागतः। दर्शने राक्षसेन्द्रस्य तदिदं दुर्लभं मया