एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥१-४४-
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥१-४४-
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥१-४४-
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥१-४४-
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप। इमां चिन्तयतोः सर्वां निखिलेन कथां तव
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्
ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्
ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्
कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः
उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्
अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो