स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते
अथेन्द्रजित् तं द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्ता- मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्
अहो महत् कर्म कृतं निरर्थं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः
हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्त- मस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
कोऽयं कस्य कुतो वापि किं कार्यं कोऽभ्युपाश्रयः। इति राक्षसवीराणां दृष्ट्वा संजज्ञिरे कथाः
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च
स ददर्श महातेजा रावणः कपिसत्तमम्। रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः। तेजोबलसमायुक्तं तपन्तमिव भास्करम्
स रोषसंवर्तितताम्रदृष्टि- र्दशाननस्तं कपिमन्ववेक्ष्य। अथोपविष्टान् कुलशीलवृद्धान् समादिशत् तं प्रति मुख्यमन्त्रीन्
यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि
thumb|एकोनपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनपञ्चाशः सर्गः ॥५-
ततः स कर्मणा तस्य विस्मितो भीमविक्रमः। हनूमान् क्रोधताम्राक्षो रक्षोऽधिपमवैक्षत
भ्राजमानं महार्हेण काञ्चनेन विराजता। मुक्ताजालवृतेनाथ मुकुटेन महाद्युतिम्
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः। हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः
महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्। स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः
विचित्रं दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः। दीप्ततीक्ष्णमहादंष्ट्रं प्रलम्बं दशनच्छदैः
शिरोभिर्दशभिर्वीरो भ्राजमानं महौजसम्। नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्
नीलाञ्जनचयप्रख्यं हारेणोरसि राजता। पूर्णचन्द्राभवक्त्रेण सबालार्कमिवाम्बुदम्
बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः। भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः
महति स्फाटिके चित्रे रत्नसंयोगचित्रिते। उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने
अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिरारात्समुपसेवितम्
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा
उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितम्। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः
मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः। आश्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्
अपश्यद् राक्षसपतिं हनूमानतितेजसम्। वेष्टितं मेरुशिखरे सतोयमिव तोयदम्
स तैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत