ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंततान् वज्रसमानवेगान्
ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात
शराणामन्तरेष्वाशु व्यावर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोक्षयँल्लक्ष्यसंग्रहम्
शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु। जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा
ततो मतिं राक्षसराजसूनु- श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित्
तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात च महीतले
ततोऽथ बुद्ध्वा स तदस्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः
ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रं चाभिमन्त्रितम्। हनूमांश्चिन्तयामास वरदानं पितामहात्
न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्। इत्येवमेवं विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः
स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च। विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म
अस्त्रेणापि हि बद्धस्य भयं मम न जायते। पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च
ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्। राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे
स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः। परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः
ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिंदमम्। बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः
स रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिगर्हणं च। कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः
स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्। अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते
अथेन्द्रजित् तं द्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्। विमुक्तमस्त्रेण जगाम चिन्ता- मन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम्
अहो महत् कर्म कृतं निरर्थं न राक्षसैर्मन्त्रगतिर्विमृष्टा। पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे
अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यते। कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः
हन्यमानस्ततः क्रूरै राक्षसैः कालमुष्टिभिः। समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः
अथेन्द्रजित् तं प्रसमीक्ष्य मुक्त- मस्त्रेण बद्धं द्रुमचीरसूत्रैः। व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे
तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्। राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
कोऽयं कस्य कुतो वापि किं कार्यं कोऽभ्युपाश्रयः। इति राक्षसवीराणां दृष्ट्वा संजज्ञिरे कथाः
हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्
अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च