बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन
इदं च दृष्ट्वा निहतं महद् बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि निरीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रभृतां वरिष्ठ
न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्य वीर्यं व्रजाक्षतं कर्म समारभस्व
न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रस्य च मतिर्मता
नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः
ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत
श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वणि
स पक्षिराजोपमतुल्यवेगै- र्व्याघ्रैश्चतुर्भिः स तु तीक्ष्णदंष्ट्रैः। रथं समायुक्तमसह्यवेगः समारुरोहेन्द्रजिदिन्द्रकल्पः
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः। रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत्
स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च। निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत्
इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान्। हनूमन्तमभिप्रेत्य जगाम रणपण्डितः
तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ। दिशश्च सर्वाः कलुषा बभूवु- र्मृगाश्च रौद्रा बहुधा विनेदुः
समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः
आयान्तं स रथं दृष्ट्वा तूर्णमिन्द्रध्वजं कपिः। ननाद च महानादं व्यवर्धत च वेगवान्
इन्द्रजित् स रथं दिव्यमाश्रितश्चित्रकार्मुकः। धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्
ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेस्तनूजः सुरासुरेन्द्राविव बद्धवैरौ
स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य। शरप्रवेगं व्यहनत् प्रवृद्ध- श्चचार मार्गे पितुरप्रमेयः
ततः शरानायततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्। मुमोच वीरः परवीरहन्ता सुसंततान् वज्रसमानवेगान्
ततः स तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च। विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात
शराणामन्तरेष्वाशु व्यावर्तत महाकपिः। हरिस्तस्याभिलक्ष्यस्य मोक्षयँल्लक्ष्यसंग्रहम्
शराणामग्रतस्तस्य पुनः समभिवर्तत। प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः
तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ। सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्
हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम्। परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु। जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा
ततो मतिं राक्षसराजसूनु- श्चकार तस्मिन् हरिवीरमुख्ये। अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्
ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः। संदधे सुमहातेजास्तं हरिप्रवरं प्रति
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्। निजग्राह महाबाहुं मारुतात्मजमिन्द्रजित्