अबालवद् बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः
पराक्रमोत्साहविवृद्धमानसः- समीक्षते मां प्रमुखोऽग्रतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम्
स तस्य तानष्ट वरान् महाहयान् समाहितान् भारसहान् विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात्
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्। ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्
कपिस्ततस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते। समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम्
स तं समाविध्य सहस्रशः कपि- र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः
स भग्नबाहूरुकटीपयोधरः क्षरन्नसृङ्निर्मथितास्थिलोचनः। सम्भिन्नसंधिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः
महाकपिर्भूमितले निपीड्य तं चकार रक्षोऽधिपतेर्महद्भयम्। महर्षिभिश्चक्रचरैः समागतैः समेत्य भूतैश्च सयक्षपन्नगैः। सुरैश्च सेन्द्रैर्भृशजातविस्मयै- र्हते कुमारे स कपिर्निरीक्षितः
निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम्। तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये
thumb|अष्टचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः ॥५-
ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे। मनः समाधाय स देवकल्पं समादिदेशेन्द्रजितं सरोषः
त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः। न शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः
न कश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः। भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। देशकालप्रधानश्च त्वमेव मतिसत्तमः
न तेऽस्त्यशक्यं समरेषु कर्मणां न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु संग्रहेषु न वेद यस्तेऽस्त्रबलं बलं च
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे। न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्
निहताः किंकराः सर्वे जम्बुमाली च राक्षसः। अमात्यपुत्रा वीराश्च पञ्च सेनाग्रगामिनः
बलानि सुसमृद्धानि साश्वनागरथानि च। सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन
इदं च दृष्ट्वा निहतं महद् बलं कपेः प्रभावं च पराक्रमं च। त्वमात्मनश्चापि निरीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्
बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ। तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रभृतां वरिष्ठ
न वीर सेना गणशो च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणं न चाग्निकल्पः करणेन हन्तुम्
तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा। स्मरंश्च दिव्यं धनुषोऽस्य वीर्यं व्रजाक्षतं कर्म समारभस्व
न खल्वियं मतिश्रेष्ठ यत्त्वां सम्प्रेषयाम्यहम्। इयं च राजधर्माणां क्षत्रस्य च मतिर्मता
नानाशस्त्रेषु संग्रामे वैशारद्यमरिंदम। अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे
ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः। चकार भर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः
ततस्तैः स्वगणैरिष्टैरिन्द्रजित् प्रतिपूजितः। युद्धोद्धतकृतोत्साहः संग्रामं सम्प्रपद्यत
श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाम महातेजाः समुद्र इव पर्वणि