विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः
स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः। बलैः समेतैः सहतोरणस्थितं समर्थमासीनमुपागमत् कपिम्
स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये। अवस्थितं विस्मितजातसम्भ्रमं समैक्षताक्षो बहुमानचक्षुषा
स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु रावणात्मजः। विचारयन् स्वं च बलं महाबलो युगक्षये सूर्य इवाभिवर्धत
स जातमन्युः प्रसमीक्ष्य विक्रमं स्थितः स्थिरः संयति दुर्निवारणम्। समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शितैः शरैस्त्रिभिः
ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोचितम्। अवैक्षताक्षः समुदीर्णमानसं सबाणपाणिः प्रगृहीतकार्मुकः
स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्। तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः
ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः। कपेः कुमारस्य च वीर्यसंयुगं ननाद च द्यौरुदधिश्च चुक्षुभे
स तस्य वीरः सुमुखान् पतत्रिणः सुवर्णपुङ्खान् सविषानिवोरगान्। समाधिसंयोगविमोक्षतत्त्ववि- च्छरानथ त्रीन् कपिमूर्ध्न्यताडयत्
स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तनेत्रः। नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः
ततः प्लवङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे। उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः
स मन्दराग्रस्थ इवांशुमाली विवृद्धकोपो बलवीर्यसंवृतः। कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा
ततः स बाणासनशक्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः। शरान् मुमोचाशु हरीश्वराचले बलाहको वृष्टिमिवाचलोत्तमे
कपिस्ततस्तं रणचण्डविक्रमं प्रवृद्धतेजोबलवीर्यसायकम्। कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यनिःस्वनः
स बालभावाद् युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः। समाससादाप्रतिमं रणे कपिं गजो महाकूपमिवावृतं तृणैः
स तेन बाणैः प्रसभं निपातितै- श्चकार नादं घननादनिःस्वनः। समुत्सहेनाशु नभः समारुजन् भुजोरुविक्षेपणघोरदर्शनः
तमुत्पतन्तं समभिद्रवद् बली स राक्षसानां प्रवरः प्रतापवान्। रथी रथश्रेष्ठतरः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः
स ताञ्छरांस्तस्य हरिर्विमोक्षयं- श्चचार वीरः पथि वायुसेविते। शरान्तरे मारुतवद् विनिष्पतन् मनोजवः संयति भीमविक्रमः
तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधैः शरोत्तमैः। अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां स च मारुतात्मजः
ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवर्येण महात्मना नदन्। महाभुजः कर्मविशेषतत्त्वविद् विचिन्तयामास रणे पराक्रमम्
अबालवद् बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः। न चास्य सर्वाहवकर्मशालिनः प्रमापणे मे मतिरत्र जायते
अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे। असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः
पराक्रमोत्साहविवृद्धमानसः- समीक्षते मां प्रमुखोऽग्रतः स्थितः। पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रकारिणः
न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते। प्रमापणं ह्यस्य ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः
इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्। चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे तदानीम्
स तस्य तानष्ट वरान् महाहयान् समाहितान् भारसहान् विवर्तने। जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः
ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः। स भग्ननीडः परिवृत्तकूबरः पपात भूमौ हतवाजिरम्बरात्
स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्। ततोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्
कपिस्ततस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते। समेत्य तं मारुतवेगविक्रमः क्रमेण जग्राह च पादयोर्दृढम्
स तं समाविध्य सहस्रशः कपि- र्महोरगं गृह्य इवाण्डजेश्वरः। मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः