समुत्पेतुर्महावेगा हुताशसमतेजसः। रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपहिता बलैः। ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिम्
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्। तोरणस्थं महावेगं महासत्त्वं महाबलम्
महामतिं महोत्साहं महाकायं महाभुजम्। तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः। तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः। शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः
स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः। उत्पपात नदन् व्योम्नि दिशो दश विनादयन्
ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः। किरन् शरशतैर्नैकैरभिपेदे महाबलः
स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्। वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः
अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वीर्यवान्
स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः। निपपात महावेगो विद्युद्राशिर्गिराविव
ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्। विहाय न्यपतद् भूमौ दुर्धरस्त्यक्तजीवितः
तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि। तौ जातरोषौ दुर्धर्षावुत्पेततुररिंदमौ
स ताभ्यां सहसोत्प्लुत्य विष्ठितो विमलेऽम्बरे। मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः
तयोर्वेगवतोर्वेगं निहत्य स महाबलः। निपपात पुनर्भूमौ सुपर्ण इव वेगितः
स सालवृक्षमासाद्य समुत्पाट्य च वानरः। तावुभौ राक्षसौ वीरौ जघान पवनात्मजः
ततस्तांस्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना। अभिपेदे महावेगः प्रहस्य प्रघसो बली
भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्। एकतः कपिशार्दूलं यशस्विनमवस्थितौ
पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्। भासकर्णश्च शूलेन राक्षसः कपिकुञ्जरम्
स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः। अभवद् वानरः क्रुद्धो बालसूर्यसमप्रभः
समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्। जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः। गिरिशृङ्गसुनिष्पिष्टौ तिलशस्तौ बभूवतुः
ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु। बलं तदवशेषं तु नाशयामास वानरः
अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्। स कपिर्नाशयामास सहस्राक्ष इवासुरान्
हयैर्नागैस्तुरंगैश्च भग्नाक्षैश्च महारथैः। हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः
ततः कपिस्तान् ध्वजिनीपतीन् रणे निहत्य वीरान् सबलान् सवाहनान्। तथैव वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये
thumb|सप्तचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥५-
सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान्। निशम्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताक्षम्
स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः। समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः
ततो महान् बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम्। रथं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः
ततस्तपःसंग्रहसंचयार्जितं प्रतप्तजाम्बूनदजालचित्रितम्। पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्
सुरासुराधृष्यमसङ्गचारिणं तडित्प्रभं व्योमचरं समाहितम्। सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्