सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः
अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः
स शरान् वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्
तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः। मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्
प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि
ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम्
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ५.
thumb|षट्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥५-
हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना। रावणः संवृताकारश्चकार मतिमुत्तमाम्
स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्। प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान्
संदिदेश दशग्रीवो वीरान् नयविशारदान्। हनूमद्ग्रहणेऽव्यग्रान् वायुवेगसमान् युधि
यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः। सवाजिरथमातङ्गाः स कपिः शास्यतामिति
यत्तैश्च खलु भाव्यं स्यात् तमासाद्य वनालयम्। कर्म चापि समाधेयं देशकालाविरोधितम्
न ह्यहं तं कपिं मन्ये कर्मणा प्रति तर्कयन्। सर्वथा तन्महद् भूतं महाबलपरिग्रहम्
वानरोऽयमिति ज्ञात्वा नहि शुद्ध्यति मे मनः। नैवाहं तं कपिं मन्ये यथेयं प्रस्तुता कथा
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्। सनागयक्षगन्धर्वदेवासुरमहर्षयः
युष्माभिः प्रहितैः सर्वैर्मया सह विनिर्जिताः। तैरवश्यं विधातव्यं व्यलीकं किंचिदेव नः
तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्। यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः
सवाजिरथमातङ्गाः स कपिः शास्यतामिति। नावमन्यो भवद्भिश्च कपिर्धीरपराक्रमः
दृष्टा हि हरयः पूर्वे मया विपुलविक्रमाः। वाली च सह सुग्रीवो जाम्बवांश्च महाबलः
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः। नैव तेषां गतिर्भीमा न तेजो न पराक्रमः
न मतिर्न बलोत्साहो न रूपपरिकल्पनम्। महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः। कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे। तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला। ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः