तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः
चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम्
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे
स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः
अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि
तस्य चैव शिरो नास्ति न बाहू न च जानुनी । न धनुर्नरथो नाश्वास्तत्रादृश्यन्त नेषवः
स हतस्तरसा तेन जम्बुमाली महाबलः । पपात निहतो भूवौ चूर्णिताङ्गविभूषणः
जम्बुमालिं च निहतं किङ्करांश्च महाबलान् । चुक्रोध रावणः श्रुत्वा कोपसंरक्त लोचनः
स रोषसंवर्तितताम्रलोचनः प्रहस्त पुत्रे निहते महाबले । अमात्यपुत्रानतिवीर्यविक्रमान् समादिदेशाशु निशाचरेश्वरः
thumb|पञ्चचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ॥५-
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः। निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः। तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः। विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः
जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्। बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः
ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः। अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः। प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः
अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः। अभवत् संवृताकारः शैलराडिव वृष्टिभिः
स शरान् वञ्चयामास तेषामाशुचरः कपिः। रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे
स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते। धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे
स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्। चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्
तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः। मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्
प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि। केचित् तस्यैव नादेन तत्रैव पतिता भुवि
ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च। तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम्
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः। भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः
स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि। विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा
स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः। युयुत्सुरन्यैः पुनरेव राक्षसै- स्तदेव वीरोऽभिजगाम तोरणम्