विसृजन्तो महाकाया मारुतिं पर्यवारयन्। ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः
आजग्मुर्वानरश्रेष्ठं बाणैश्चादित्यसंनिभैः। आवर्त इव गङ्गायास्तोयस्य विपुलो महान्
परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः। ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः
प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्। उत्पाटयित्वा वेगेन हनूमान् मारुतात्मजः
ततस्तं भ्रामयामास शतधारं महाबलः। तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः। स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्
अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्। मादृशानां सहस्राणि विसृष्टानि महात्मनाम्
बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्। अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः
दशनागबलाः केचित् केचिद् दशगुणोत्तराः। केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
सन्ति चौघबलाः केचित् सन्ति वायुबलोपमाः। अप्रमेयबलाः केचित् तत्रासन् हरियूथपाः
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः। शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि
आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः। नेयमस्ति पुरी लङ्का न यूयं न च रावणः। यस्य त्विक्ष्वाकुवीरेण बद्धं वैरं महात्मना
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ५.
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुश्चत्वारिंशः सर्गः ॥५-
संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली । जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः
रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः । महान् विवृत्तनयनश्चण्डः समरदुर्जयः
धनुः शक्रधनुःप्रख्यं महद्रुचिरसायकम् । विस्फारयानो वेगेन वज्राशनिसमस्वनम्
तस्य विस्फारघोषेण धनुषो महता दिशः । प्रदिशश्च नभश्चॆव सहसा समपूर्यत
रथेन खरयुक्तेन तमागतमुदीक्ष्य सः । हनुमान् वेगसंपन्नो जहर्ष च ननाद च
तं तोरणविटङ्कस्थं हनुमन्तं महाकपिम् । जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः
अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना । बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्
तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम् । शरदीवाम्बुजम्फुल्लं विद्धं भास्कररश्मिना
तत्तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् । यथाकाशे महापद्मं सिक्तं चन्दनबिन्दुभिः
चुकोप बाणाभिहतो राक्षसस्य महाकपिः । ततः पार्श्वेतिविपुलां ददर्श महतीं शिलाम्
तरसा तां समुत्पाट्य चिक्षेप बलवद्बली । तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः
विपन्नं कर्म तद्दृष्ट्वा हनुमांश्चण्डविक्रमः । सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्
भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम् । चिक्षेप सुबहून् बाणान् जम्बुमाली महाबलः
सालं चतुर्भिश्चिच्छेद वानरं पञ्चभिर्भुजे । शिरस्येकेन बाणेन दशभिस्तु स्तनान्तरे
स शरैः पूरिततनुः क्रोधेन महता वृतः । तमेव परिघं गृह्य भ्रामयामास वेगतः
अतिवेगोतिवेगेन भ्रामयित्वा बलोत्कटः । परिघं पातयामास जम्बुमालेर्महोरसि