ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम्
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन्
तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्
स तं परिघमादाय जघान रजनीचरान्। सपन्नगमिवादाय स्फुरन्तं विनतासुतः
विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक्
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥५-
ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम्। आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः
आरुह्य गिरिसंकाशं प्रासादं हरियूथपः। बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः
सम्प्रधृष्य तु दुर्धर्षश्चैत्यप्रासादमुन्नतम्। हनूमान् प्रज्वलँल्लक्ष्म्या पारियात्रोपमोऽभवत्
स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः। धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
तस्यास्फोटितशब्देन महता श्रोत्रघातिना। पेतुर्विहंगमास्तत्र चैत्यपालाश्च मोहिताः
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः
धर्षयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
एवमुक्त्वा महाकायश्चैत्यस्थो हरियूथपः। ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्
तेन नादेन महता चैत्यपालाः शतं ययुः। गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्