जानकीरक्षणार्थं वा श्रमाद् वा नोपलक्ष्यते। अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता
चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता। प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः
तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि। सीता सम्भाषिता येन वनं तेन विनाशितम्
मनःपरिगृहीतां तां तव रक्षोगणेश्वर। कः सीतामभिभाषेत यो न स्यात् त्यक्तजीवितः
राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः। चिताग्निरिव जज्वाल कोपसंवर्तितेक्षणः
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः। दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः
आत्मनः सदृशान् वीरान् किंकरान्नाम राक्षसान्। व्यादिदेश महातेजा निग्रहार्थं हनूमतः
तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्। निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः
महोदरा महादंष्ट्रा घोररूपा महाबलाः। युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः
ते कपिं तं समासाद्य तोरणस्थमवस्थितम्। अभिपेतुर्महावेगाः पतंगा इव पावकम्
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः। आजग्मुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः
मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तं सहसा तस्थुरग्रतः
हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः। क्षितावाविद्ध्य लाङ्गूलं ननाद च महाध्वनिम्
स भूत्वा तु महाकायो हनूमान् मारुतात्मजः। पुच्छमास्फोटयामास लङ्कां शब्देन पूरयन्
तस्यास्फोटितशब्देन महता चानुनादिना। पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभिपालितः
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः। हनूमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्। शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः
अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्। समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
तस्य संनादशब्देन तेऽभवन् भयशङ्किताः। ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्
स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्। चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
स तैः परिवृतः शूरैः सर्वतः स महाबलः। आससादायसं भीमं परिघं तोरणाश्रितम्
स तं परिघमादाय जघान रजनीचरान्। सपन्नगमिवादाय स्फुरन्तं विनतासुतः
विचचाराम्बरे वीरः परिगृह्य च मारुतिः। सूदयामास वज्रेण दैत्यानिव सहस्रदृक्
स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः। युद्धाकाङ्क्षी महावीरस्तोरणं समवस्थितः
ततस्तस्माद् भयान्मुक्ताः कतिचित्तत्र राक्षसाः। निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्
स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः। समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः ॥५-
ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः। वनं भग्नं मया चैत्यप्रासादो न विनाशितः
चैत्यप्रासादमुत्प्लुत्य मेरुशृङ्गमिवोन्नतम्। आरुरोह हरिश्रेष्ठो हनूमान् मारुतात्मजः