ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलं सयायिनम्। हृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनर्व्रजे
इदमस्य नृशंसस्य नन्दनोपममुत्तमम्। वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः
ततो महत्साश्वमहारथद्विपं बलं समानेष्यति राक्षसाधिपः। त्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति
अहं च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः। निहत्य तद् रावणचोदितं बलं सुखं गमिष्यामि हरीश्वरालयम्
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः। ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत्
ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्। मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्
नानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः। ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः
न बभौ तद् वनं तत्र दावानलहतं यथा। व्याकुलावरणा रेजुर्विह्वला इव ता लताः
लतागृहैश्चित्रगृहैश्च सादितै- र्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः। शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद् वनम्
सा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना। जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य
ततः स कृत्वा जगतीपतेर्महान् महद् व्यलीकं मनसो महात्मनः। युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः
thumb|द्विचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ॥५-
ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च। बभूवुस्त्राससम्भ्रान्ताः सर्वे लङ्कानिवासिनः
ततो गतायां निद्रायां राक्षस्यो विकृताननाः। तद् वनं ददृशुर्भग्नं तं च वीरं महाकपिम्
स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः। चकार सुमहद्रूपं राक्षसीनां भयावहम्
ततस्तु गिरिसंकाशमतिकायं महाबलम्। राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्
कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः। कथं त्वया सहानेन संवादः कृत इत्युत
आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्। संवादमसितापाङ्गि त्वया किं कृतवानयम्
अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गशोभना। रक्षसां कामरूपाणां विज्ञाने का गतिर्मम
यूयमेवास्य जानीत योऽयं यद् वा करिष्यति। अहिरेव ह्यहेः पादान् विजानाति न संशयः
अहमप्यतिभीतास्मि नैव जानामि को ह्ययम्। वेद्मि राक्षसमेवैनं कामरूपिणमागतम्
वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्। स्थिताः काश्चिद्गताः काश्चिद् रावणाय निवेदितुम्
रावणस्य समीपे तु राक्षस्यो विकृताननाः। विरूपं वानरं भीमं रावणाय न्यवेदिषुः
अशोकवनिकामध्ये राजन् भीमवपुः कपिः। सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः
न च तं जानकी सीता हरिं हरिणलोचना। अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति
वासवस्य भवेद् दूतो दूतो वैश्रवणस्य वा। प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया
तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्। नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्
न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः। यत्र सा जानकी देवी स तेन न विनाशितः