मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे। वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम्
धारयिष्यामि मासं तु जीवितं शत्रुसूदन। मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम्
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्। अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे शोकाभिभूते तु लक्ष्मणः परितप्यते
दृष्टा कथंचिद् भवती न कालः परिदेवितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ। त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
हत्वा तु समरे रक्षो रावणं सहबान्धवैः। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यतः
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते। प्रीतिसंजननं भूयस्तस्य त्वं दातुमर्हसि
साब्रवीद् दत्तमेवाहो मयाभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम्
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति। स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः
प्रणम्य शिरसा देवीं गमनायोपचक्रमे। तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम्
वर्धमानं महावेगमुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्
यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर
स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः। तदल्पशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम
thumb|एकचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकचत्वारिंशः सर्गः ॥५-
स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया। तस्माद् देशादपाक्रम्य चिन्तयामास वानरः
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते
न साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते
न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। हतप्रवीराश्च रणे तु राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम्
कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्। पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति
न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने
इहैव तावत्कृतनिश्चयो ह्यहं व्रजेयमद्य प्लवगेश्वरालयम्। परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम्
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। तथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः