शैलाम्बुदनिकाशानां लङ्कामलयसानुषु। नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा। न शर्म लभते रामः सिंहार्दित इव द्विपः
रुद मा देवि शोकेन मा भूत् ते मनसो भयम्। शचीव भर्त्रा शक्रेण सङ्गमेष्यसि शोभने
रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः। अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ
नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे। न ते चिरादागमनं प्रियस्य क्षमस्व मत्संगमकालमात्रम्
thumb|चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चत्वारिंशः सर्गः ॥५-
श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः। उवाचात्महितं वाक्यं सीता सुरसुतोपमा
त्वां दृष्ट्वा प्रियवक्तारं सम्प्रहृष्यामि वानर। अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः। संस्पृशेयं सकामाहं तथा कुरु दयां मयि
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम। क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्
मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः। त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि
स वीर्यवान् कथं सीतां हृतां समनुमन्यसे। वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम
एष चूडामणिर्दिव्यो मया सुपरिरक्षितः। एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
एष निर्यातितः श्रीमान् मया ते वारिसम्भवः। अतः परं न शक्ष्यामि जीवितुं शोकलालसा
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः। राक्षसैः सह संवासं त्वत्कृते मर्षयाम्यहम्
धारयिष्यामि मासं तु जीवितं शत्रुसूदन। मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज
घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि। त्वां च श्रुत्वा विषज्जन्तं न जीवेयमपि क्षणम्
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्। अथाब्रवीन्महातेजा हनूमान् मारुतात्मजः
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे शोकाभिभूते तु लक्ष्मणः परितप्यते
दृष्टा कथंचिद् भवती न कालः परिदेवितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ। त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
हत्वा तु समरे रक्षो रावणं सहबान्धवैः। राघवौ त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यतः
यत्तु रामो विजानीयादभिज्ञानमनिन्दिते। प्रीतिसंजननं भूयस्तस्य त्वं दातुमर्हसि
साब्रवीद् दत्तमेवाहो मयाभिज्ञानमुत्तमम्। एतदेव हि रामस्य दृष्ट्वा यत्नेन भूषणम्
श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति। स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः
प्रणम्य शिरसा देवीं गमनायोपचक्रमे। तमुत्पातकृतोत्साहमवेक्ष्य हरियूथपम्
वर्धमानं महावेगमुवाच जनकात्मजा। अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ। सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्
यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि
इदं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च। ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वास्तु हरिप्रवीर