गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः । तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥१-४३-
अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् । ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥१-४३-
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥१-४३-
जगाम च पुनर्गङ्गा भगीरथरथानुगा । सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥१-४३-
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः । भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥१-४३-
पितमहान् भस्मकृतानपश्यद् गतचेतनः । अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥१-४३-
thumb|चतुश्चत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-
स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥१-४४-
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥१-४४-
तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥१-४४-
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥१-४४-
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥१-४४-
पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥१-४४-
पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥१-४४-
तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥१-४४-
राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१-४४-
दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥१-४४-
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥१-४४-
तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥१-४४-
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१-४४-
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः यथागतं तथागच्चद् देवलोकं महायशाः ॥१-४४-
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् यथाक्रमं यथान्यायं सागराणां महायशाः ॥१-४४-
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥१-४४-
प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥१-४४-