ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्
यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
ततो हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखादुःखपरामृष्टां दीपयन्निव वानर
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्येह लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसे समाधानं त्वं हि कार्यविदां वरः
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः
बलैः समग्रैर्युधि मां रावणं जित्य संयुगे। विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत्
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः
स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसम्पाता निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः
असकृत् तैर्महोत्साहैः ससागरधराधरा। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
तदलं परितापेन देवि शोको व्यपैतु ते। एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ। त्वत्सकाशं महासङ्घौ नृसिंहावागमिष्यतः
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ। आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः
सगणं रावणं हत्वा राघवो रघुनन्दनः। त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी। नचिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम्
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे। त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी
क्षिप्रं त्वं देवि शोकस्य पारं द्रक्ष्यसि मैथिलि। रावणं चैव रामेण द्रक्ष्यसे निहतं बलात्
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः। गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्। लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम्
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्। वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्