यथा च स महाबाहुर्मां तारयति राघवः। अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्। तत् त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि
नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः। वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः। पराक्रमे मतिं वीरो विधिवत् संविधास्यति
सीतायास्तद् वचः श्रुत्वा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः। यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा। यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्। स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः
स हि सागरपर्यन्तां महीं साधितुमर्हति। त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि
तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्। जानकी बहु मेने तं वचनं चेदमब्रवीत्
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः। भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्
यदि वा मन्यसे वीर वसैकाहमरिंदम। कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर। अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
ततो हि हरिशार्दूल पुनरागमनाय तु। प्राणानामपि संदेहो मम स्यान्नात्र संशयः
तवादर्शनजः शोको भूयो मां परितापयेत्। दुःखादुःखपरामृष्टां दीपयन्निव वानर
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः। सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्। तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
त्रयाणामेव भूतानां सागरस्येह लङ्घने। शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे। किं पश्यसे समाधानं त्वं हि कार्यविदां वरः
काममस्य त्वमेवैकः कार्यस्य परिसाधने। पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः
बलैः समग्रैर्युधि मां रावणं जित्य संयुगे। विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत्
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः। मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत्
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः। भवेदाहवशूरस्य तथा त्वमुपपादय
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्। निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः। सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः
स वानरसहस्राणां कोटीभिरभिसंवृतः। क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः। मनःसंकल्पसम्पाता निदेशे हरयः स्थिताः
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः। न च कर्मसु सीदन्ति महत्स्वमिततेजसः
असकृत् तैर्महोत्साहैः ससागरधराधरा। प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ