तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः
हत्वा च समरक्रूरं रावणं सहबान्धवम्। राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति
ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयो वा समागताः
इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत्। कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय। स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्। पितरं मातरं चैव सम्मान्याभिप्रसाद्य च
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः। आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने। सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः
पितृवद् वर्तते रामे मातृवन्मां समाचरत्। ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता। राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत्। स ममार्थाय कुशलं वक्तव्यो वचनान्मम
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्
त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप। राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। जीवितं धारयिष्यामि मासं दशरथात्मज
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते। रावणेनोपरुद्धां मां निकृत्या पापकर्मणा। त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। अङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः
हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो रामं लक्ष्मणं च सलक्षणम्
मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्। गिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे
thumb|एकोनचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥५-
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्। अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः
मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति। वीरो जनन्या मम च राज्ञो दशरथस्य च
स भूयस्त्वं समुत्साहचोदितो हरिसत्तम। अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम्
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम। तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्
हनूमन् यत्नमास्थाय दुःखक्षयकरो भव। स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः
शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे। ज्ञात्वा सम्प्रस्थितं देवी वानरं पवनात्मजम्
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्। हनूमन् कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ
सुग्रीवं च सहामात्यं सर्वान् वृद्धांश्च वानरान्। ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्