अपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्। भर्तारं ससमुद्राया धरण्या वासवोपमम्
एवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि। किमर्थमस्त्रं रक्षःसु न योजयसि राघव
न नागा नापि गन्धर्वा न सुरा न मरुद्गणाः। रामस्य समरे वेगं शक्ताः प्रतिसमीहितुम्
तस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः। किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्
भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः। कस्य हेतोर्न मां वीरः परित्राति महाबलः
यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ। सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः। समर्थावपि तौ यन्मां नावेक्षेते परंतपौ
वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम्। अथाब्रवीन्महातेजा हनूमान् हरियूथपः
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे। रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते
कथंचिद् भवती दृष्टा न कालः परिशोचितुम्। इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने
तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः
हत्वा च समरक्रूरं रावणं सहबान्धवम्। राघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति
ब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः। सुग्रीवो वापि तेजस्वी हरयो वा समागताः
इत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत्। कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय। स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्। पितरं मातरं चैव सम्मान्याभिप्रसाद्य च
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः। आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने। सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः
पितृवद् वर्तते रामे मातृवन्मां समाचरत्। ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता। राजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे
मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत्। स ममार्थाय कुशलं वक्तव्यो वचनान्मम
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः। यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्
त्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप। राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। जीवितं धारयिष्यामि मासं दशरथात्मज
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते। रावणेनोपरुद्धां मां निकृत्या पापकर्मणा। त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्
ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। प्रदेयो राघवायेति सीता हनुमते ददौ
प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। अङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः
मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः
हर्षेण महता युक्तः सीतादर्शनजेन सः। हृदयेन गतो रामं लक्ष्मणं च सलक्षणम्