इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना। गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत्
एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके। तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः
तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु। विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्टमुद्यम्य वारयामि स्म वायसम्
दारयन् स च मां काकस्तत्रैव परिलीयते। न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे। स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता
ततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम्। क्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता
बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। लक्षिताहं त्वया नाथ वायसेन प्रकोपिता
परिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम्। पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः
स तत्र पुनरेवाथ वायसः समुपागमत्। ततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम्। वायसः सहसागम्य विददार स्तनान्तरे
पुनः पुनरथोत्पत्य विददार स मां भृशम्। ततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा। आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत
केन ते नागनासोरु विक्षतं वै स्तनान्तरम्। कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
वीक्षमाणस्ततस्तं वै वायसं समवैक्षत। नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
पुत्रः किल स शक्रस्य वायसः पततां वरः। धरान्तरं गतः शीघ्रं पवनस्य गतौ समः
ततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। वायसे कृतवान् क्रूरां मतिं मतिमतां वरः
स दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत्। स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। ततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह
अनुसृष्टस्तदा काको जगाम विविधां गतिम्। त्राणकाम इमं लोकं सर्वं वै विचचार ह
स पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः। त्रीँल्लोकान् सम्परिक्रम्य तमेव शरणं गतः
स तं निपतितं भूमौ शरण्यः शरणागतम्। वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्
परिद्यूनं विवर्णं च पतमानं तमब्रवीत्। मोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम्
ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। दत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः
स रामाय नमस्कृत्वा राज्ञे दशरथाय च। विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्
मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्। कस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते
आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम्। जानामि त्वां महावीर्यं महोत्साहं महाबलम्