अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम्। यत्र ते नाभिजानीयुर्हरयो नापि राघवः
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः। त्वया हि सह रामस्य महानागमने गुणः
मयि जीवितमायत्तं राघवस्यामितौजसः। भ्रातॄणां च महाबाहो तव राजकुलस्य च
तौ निराशौ मदर्थं च शोकसंतापकर्शितौ। सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर। नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम
यदहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीशा किं करिष्यामि विनाथा विवशा सती
यदि रामो दशग्रीवमिह हत्वा सराक्षसम्। मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत्
श्रुताश्च दृष्टा हि मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः। न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्
स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं सयूथपं क्षिप्रमिहोपपादय। चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरवीर हर्षिताम्
thumb|अष्टात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे अष्टात्रिंशः सर्गः ॥५-
ततः स कपिशार्दूलस्तेन वाक्येन तोषितः। सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः
युक्तरूपं त्वया देवि भाषितं शुभदर्शने। सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च
स्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम्। मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्
द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। रामादन्यस्य नार्हामि संसर्गमिति जानकि
एतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः। का ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम्
श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। चेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः
कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। स्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम्
लङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः। सामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम्
इच्छामि त्वां समानेतुमद्यैव रघुनन्दिना। गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्
यदि नोत्सहसे यातुं मया सार्धमनिन्दिते। अभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत्
एवमुक्ता हनुमता सीता सुरसुतोपमा। उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्
इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे
तापसाश्रमवासिन्याः प्राज्यमूलफलोदके। तस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः
तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु। विहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः
ततो मांससमायुक्तो वायसः पर्यतुण्डयत्। तमहं लोष्टमुद्यम्य वारयामि स्म वायसम्
दारयन् स च मां काकस्तत्रैव परिलीयते। न चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः
उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे। स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्
त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा। भक्ष्यगृद्धेन काकेन दारिता त्वामुपागता