हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्। लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्
तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम्
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्य पारं वानरयूथप
जानामि गमने शक्तिं नयने चापि ते मम। अवश्यं सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह। वायुवेगसवेगस्य वेगो मां मोहयेत् तव
अहमाकाशमासक्ता उपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः
पतिता सागरे चाहं तिमिनक्रझषाकुले। भवेयमाशु विवशा यादसामन्नमुत्तमम्
न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन। कलत्रवति संदेहस्त्वयि स्यादप्यसंशयम्
ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः। अनुगच्छेयुरादिष्टा रावणेन दुरात्मना
तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः। भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्
सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः। कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्
युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः। प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम
अथ रक्षांसि भीमानि महान्ति बलवन्ति च। कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम
अथवा युध्यमानस्य पतेयं विमुखस्य ते। पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः
मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा। अनवस्थौ हि दृश्येते युद्धे जयपराजयौ
अहं वापि विपद्येयं रक्षोभिरभितर्जिता। त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु
कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्। राघवस्य यशो हीयेत् त्वया शस्तैस्तु राक्षसैः
अथवाऽऽदाय रक्षांसि न्यसेयुः संवृते हि माम्। यत्र ते नाभिजानीयुर्हरयो नापि राघवः
आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः। त्वया हि सह रामस्य महानागमने गुणः
मयि जीवितमायत्तं राघवस्यामितौजसः। भ्रातॄणां च महाबाहो तव राजकुलस्य च
तौ निराशौ मदर्थं च शोकसंतापकर्शितौ। सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्
भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर। नाहं स्प्रष्टुं स्वतो गात्रमिच्छेयं वानरोत्तम
यदहं गात्रसंस्पर्शं रावणस्य गता बलात्। अनीशा किं करिष्यामि विनाथा विवशा सती
यदि रामो दशग्रीवमिह हत्वा सराक्षसम्। मामितो गृह्य गच्छेत तत् तस्य सदृशं भवेत्
श्रुताश्च दृष्टा हि मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः। न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे
समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्। सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्
सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्। सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्