न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः। अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा
शरजालांशुमान् शूरः कपे रामदिवाकरः। शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति
इति संजल्पमानां तां रामार्थे शोककर्शिताम्। अश्रुसम्पूर्णवदनामुवाच हनुमान् कपिः
श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम्
अथवा मोचयिष्यामि त्वामद्यैव सराक्षसात्। अस्माद् दुःखादुपारोह मम पृष्ठमनिन्दिते
त्वां तु पृष्ठगतां कृत्वा संतरिष्यामि सागरम्। शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्
अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि। प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः
द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्। व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा
त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्। पुरंदरमिवासीनं नगराजस्य मूर्धनि
पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने। योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी
कथयन्तीव शशिना संगमिष्यसि रोहिणी। मत्पृष्ठमधिरोह त्वं तराकाशं महार्णवम्
नहि मे सम्प्रयातस्य त्वामितो नयतोऽङ्गने। अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः
यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्। यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्
मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्। हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्
हनूमन् दूरमध्वानं कथं मां नेतुमिच्छसि। तदेव खलु ते मन्ये कपित्वं हरियूथप
कथं चाल्पशरीरस्त्वं मामितो नेतुमिच्छसि। सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ
सीतायास्तु वचः श्रुत्वा हनूमान् मारुतात्मजः। चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम्
न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा। तस्मात् पश्यतु वैदेही यद् रूपं मम कामतः
इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः। दर्शयामास सीतायाः स्वरूपमरिमर्दनः
स तस्मात् पादपाद् धीमानाप्लुत्य प्लवगर्षभः। ततो वर्धितुमारेभे सीताप्रत्ययकारणात्
हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः। वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्
सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्। लङ्कामिमां सनाथां वा नयितुं शक्तिरस्ति मे
तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया। विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्
तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा। पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्
तव सत्त्वं बलं चैव विजानामि महाकपे। वायोरिव गतिश्चापि तेजश्चाग्नेरिवाद्भुतम्
प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति। उदधेरप्रमेयस्य पारं वानरयूथप
जानामि गमने शक्तिं नयने चापि ते मम। अवश्यं सम्प्रधार्याशु कार्यसिद्धिरिवात्मनः
अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह। वायुवेगसवेगस्य वेगो मां मोहयेत् तव
अहमाकाशमासक्ता उपर्युपरि सागरम्। प्रपतेयं हि ते पृष्ठाद् भूयो वेगेन गच्छतः
पतिता सागरे चाहं तिमिनक्रझषाकुले। भवेयमाशु विवशा यादसामन्नमुत्तमम्