विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्
तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति
तवादर्शनजेनार्ये शोकेन परिपूरितः। न शर्म लभते रामः सिंहार्दित इव द्विपः
मन्दरेण च ते देवि शपे मूलफलेन च। मलयेन च विन्ध्येन मेरुणा दर्दुरेण च
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्। मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतुमिवासीनं नागपृष्ठस्य मूर्धनि
न मांसं राघवो भुङ्क्ते न चैव मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्
नैव दंशान् न मशकान् न कीटान् न सरीसृपान्। राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किंचित् स तु कामवशं गतः
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते
दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत् स्त्रीमनोहरम्। बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते
स देवि नित्यं परितप्यमान- स्त्वामेव सीतेत्यभिभाषमाणः। धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः
सा रामसंकीर्तनवीतशोका रामस्य शोकेन समानशोका। शरन्मुखेनाम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव
thumb|सप्तत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तत्रिंशः सर्गः ॥५-
सा सीता वचनं श्रुत्वा पूर्णचन्द्रनिभानना। हनूमन्तमुवाचेदं धर्मार्थसहितं वचः
अमृतं विषसम्पृक्तं त्वया वानर भाषितम्। यच्च नान्यमना रामो यच्च शोकपरायणः
ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे। रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति
विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम। सौमित्रं मां च रामं च व्यसनैः पश्य मोहितान्
शोकस्यास्य कथं पारं राघवोऽधिगमिष्यति। प्लवमानः परिक्रान्तो हतनौः सागरे यथा
राक्षसानां वधं कृत्वा सूदयित्वा च रावणम्। लङ्कामुन्मथितां कृत्वा कदा द्रक्ष्यति मां पतिः
स वाच्यः संत्वरस्वेति यावदेव न पूर्यते। अयं संवत्सरः कालस्तावद्धि मम जीवितम्
वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम। रावणेन नृशंसेन समयो यः कृतो मम
विभीषणेन च भ्रात्रा मम निर्यातनं प्रति। अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम्
मम प्रतिप्रदानं हि रावणस्य न रोचते। रावणं मार्गते संख्ये मृत्युः कालवशंगतम्
ज्येष्ठा कन्या कला नाम विभीषणसुता कपे। तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्
अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः। धृतिमाञ्छीलवान् वृद्धो रावणस्य सुसम्मतः
रामात् क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्। न च तस्य स दुष्टात्मा शृणोति वचनं हितम्
आशंसेयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः। अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः
उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता। विक्रमश्च प्रभावश्च सन्ति वानर राघवे
चतुर्दश सहस्राणि राक्षसानां जघान यः। जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्