कच्चिन्न व्यथते रामः कच्चिन्न परितप्यते। उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः
कच्चिन्न दीनः सम्भ्रान्तः कार्येषु च न मुह्यति। कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः
द्विविधं त्रिविधोपायमुपायमपि सेवते। विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परंतपः
कच्चिन्मित्राणि लभतेऽमित्रैश्चाप्यभिगम्यते। कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः
कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः। कच्चित् पुरुषकारं च दैवं च प्रतिपद्यते
कच्चिन्न विगतस्नेहो विवासान्मयि राघवः। कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति राघवः
सुखानामुचितो नित्यमसुखानामनूचितः। दुःखमुत्तरमासाद्य कच्चिद् रामो न सीदति
कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव च। अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः। कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति
कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः। ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते
वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति। मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः
कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः। अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति
रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे। द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि। मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन
धर्मापदेशात् त्यजतः स्वराज्यं मां चाप्यरण्यं नयतः पदातेः। नासीद् यथा यस्य न भीर्न शोकः कच्चित् स धैर्यं हृदये करोति
न चास्य माता न पिता न चान्यः स्नेहाद् विशिष्टोऽस्ति मया समो वा। तावद्ध्यहं दूत जिजीविषेयं यावत् प्रवृत्तिं शृणुयां प्रियस्य
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा। श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः। शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
न त्वामिहस्थां जानीते रामः कमललोचनः। तेन त्वां नानयत्याशु शचीमिव पुरंदरः
श्रुत्वैव च वचो मह्यं क्षिप्रमेष्यति राघवः। चमूं प्रकर्षन् महतीं हर्यृक्षगणसंयुताम्
विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्। करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्
तत्र यद्यन्तरा मृत्युर्यदि देवा महासुराः। स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति
तवादर्शनजेनार्ये शोकेन परिपूरितः। न शर्म लभते रामः सिंहार्दित इव द्विपः
मन्दरेण च ते देवि शपे मूलफलेन च। मलयेन च विन्ध्येन मेरुणा दर्दुरेण च
यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्। मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्
क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ। शतक्रतुमिवासीनं नागपृष्ठस्य मूर्धनि
न मांसं राघवो भुङ्क्ते न चैव मधु सेवते। वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्
नैव दंशान् न मशकान् न कीटान् न सरीसृपान्। राघवोऽपनयेद् गात्रात् त्वद्गतेनान्तरात्मना
नित्यं ध्यानपरो रामो नित्यं शोकपरायणः। नान्यच्चिन्तयते किंचित् स तु कामवशं गतः
अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः। सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते