सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्। कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः
गुरोराराधने युक्तो लक्ष्मणः शुभलक्षणः। तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः
अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह। मयेयमसहायेन चरता कामरूपिणा
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा। दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्
अपनेष्यामि संतापं तवाधिगमशासनात्। दिष्ट्या हि न मम व्यर्थं सागरस्येह लङ्घनम्
प्राप्स्याम्यहमिदं देवि त्वद्दर्शनकृतं यशः। राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते
सपुत्रबान्धवं हत्वा रावणं राक्षसाधिपम्। माल्यवान् नाम वैदेहि गिरीणामुत्तमो गिरिः
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः। स च देवर्षिभिर्दिष्टः पिता मम महाकपिः। तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरन्
यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि। हनूमानिति विख्यातो लोके स्वेनैव कर्मणा
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः। अचिरात् त्वामितो देवि राघवो नयिता ध्रुवम्
एवं विश्वासिता सीता हेतुभिः शोककर्शिता। उपपन्नैरभिज्ञानैर्दूतं तमधिगच्छति
अतुलं च गता हर्षं प्रहर्षेण तु जानकी। नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्
चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्
हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा। अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्
एतत् ते सर्वमाख्यातं समाश्वसिहि मैथिलि। किं करोमि कथं वा ते रोचते प्रतियाम्यहम्
हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्। ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः
thumb|षट्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे षट्त्रिंशः सर्गः ॥५-
भूय एव महातेजा हनूमान् पवनात्मजः। अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात्
प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना। समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि
गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषितम्। भर्तारमिव सम्प्राप्तं जानकी मुदिताभवत्
चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्। बभूव हर्षोदग्रं च राहुमुक्त इवोडुराट्
ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता। परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्
विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम। येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्
शतयोजनविस्तीर्णः सागरो मकरालयः। विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः
नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ। यस्य ते नास्ति संत्रासो रावणादपि सम्भ्रमः
अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्। यद्यसि प्रेषितस्तेन रामेण विदितात्मना
प्रेषयिष्यति दुर्धर्षो रामो नह्यपरीक्षितम्। पराक्रममविज्ञाय मत्सकाशं विशेषतः
दिष्ट्या च कुशली रामो धर्मात्मा सत्यसंगरः। लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः
कुशली यदि काकुत्स्थः किं न सागरमेखलाम्। महीं दहति कोपेन युगान्ताग्निरिवोत्थितः
अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे। ममैव तु न दुःखानामस्ति मन्ये विपर्ययः