आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-
नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-
तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-
ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-
सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-
दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-
शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-
विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-
विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः । तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥१-४३-
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् । तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥१-४३-
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः । शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥१-४३-
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः । धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥१-४३-
पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे । मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥१-४३-
कृताभिषेको गङ्गायां बभूव गतकल्मषः । भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥१-४३-
प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् । देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥१-४३-
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः । सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥१-४३-
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये । यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥१-४३-
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥१-४३-