स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः
तवादर्शनशोकेन राघवः परिचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः
काननानि सुरम्याणि नदीप्रस्रवणानि च। चरन् न रतिमाप्नोति त्वामपश्यन् नृपात्मजे
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे
सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं प्रति
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः
ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम्
रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनूमन्तं च मां विद्धि तयोर्दूतमुपागतम्
स्वं राज्यं प्राप्य सुग्रीवः स्वानानीय महाकपीन्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः। अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः
तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुमुपस्थिताः
विचित्य गिरिदुर्गाणि नदीप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः
ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे। दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान्
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः। तव नाशं च वैदेहि वालिनश्च तथा वधम्
प्रायोपवेशमस्माकं मरणं च जटायुषः। तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्
कार्यहेतोरिहायातः शकुनिर्वीर्यवान् महान्। गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्। यवीयान् केन मे भ्राता हतः क्व च निपातितः
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः। अङ्गदोऽकथयत् तस्य जनस्थाने महद्वधम्
रक्षसा भीमरूपेण त्वामुद्दिश्य यथार्थतः। जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः
त्वामाह स वरारोहे वसन्तीं रावणालये। तस्य तद् वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्
अङ्गदप्रमुखाः सर्वे ततः प्रस्थापिता वयम्। विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तमम्
त्वद्दर्शने कृतोत्साहा हृष्टाः पुष्टाः प्लवङ्गमाः। अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपागताः
चिन्तां जग्मुः पुनर्भीमां त्वद्दर्शनसमुत्सुकाः। अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः। लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला
रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता। एतत् ते सर्वमाख्यातं यथावृत्तमनिन्दिते
अभिभाषस्व मां देवि दूतो दाशरथेरहम्। तन्मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्