स्त्रीहेतोर्वालिना भ्रात्रा निरस्तं पुरुतेजसा। ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्। स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्। ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया
यान्याभरणजालानि पातितानि महीतले। तानि सर्वाणि रामाय आनीय हरियूथपाः
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव। तानि रामाय दत्तानि मयैवोपहृतानि च
स्वनवन्त्यवकीर्णानि तस्मिन् विहतचेतसि। तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तदा
तेन देवप्रकाशेन देवेन परिदेवितम्। पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः
प्रादीपयद् दाशरथेस्तदा शोकहुताशनम्
शायितं च चिरं तेन दुःखार्तेन महात्मना। मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः। राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत्
स तवादर्शनादार्ये राघवः परितप्यते। महता ज्वलता नित्यमग्निनेवाग्निपर्वतः
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्। तापयन्ति महात्मानमग्न्यगारमिवाग्नयः
तवादर्शनशोकेन राघवः परिचाल्यते। महता भूमिकम्पेन महानिव शिलोच्चयः
काननानि सुरम्याणि नदीप्रस्रवणानि च। चरन् न रतिमाप्नोति त्वामपश्यन् नृपात्मजे
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः। समित्रबान्धवं हत्वा रावणं जनकात्मजे
सहितौ रामसुग्रीवावुभावकुरुतां तदा। समयं वालिनं हन्तुं तव चान्वेषणं प्रति
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः। किष्किन्धां समुपागम्य वाली युद्धे निपातितः
ततो निहत्य तरसा रामो वालिनमाहवे। सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम्
रामसुग्रीवयोरैक्यं देव्येवं समजायत। हनूमन्तं च मां विद्धि तयोर्दूतमुपागतम्
स्वं राज्यं प्राप्य सुग्रीवः स्वानानीय महाकपीन्। त्वदर्थं प्रेषयामास दिशो दश महाबलान्
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः। अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः। चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः। प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः
तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे। भृशं शोकपरीतानामहोरात्रगणा गताः
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च। भयाच्च कपिराजस्य प्राणांस्त्यक्तुमुपस्थिताः
विचित्य गिरिदुर्गाणि नदीप्रस्रवणानि च। अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः
ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे। दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान्
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः। तव नाशं च वैदेहि वालिनश्च तथा वधम्
प्रायोपवेशमस्माकं मरणं च जटायुषः। तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्
कार्यहेतोरिहायातः शकुनिर्वीर्यवान् महान्। गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्