एवमुक्तस्तु वैदेह्या हनूमान् मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतः शृणु तानि मे
रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे
तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्
राजनीत्यां विनीतश्च ब्राह्मणानामुपासकः। ज्ञानवान् शीलसम्पन्नो विनीतश्च परंतपः
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः। गूढजत्रुः सुताम्राक्षो रामो नाम जनैः श्रुतः
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्। समश्च सुविभक्ताङ्गो वर्णं श्यामं समाश्रितः
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः। त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः
त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्। चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः। महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्। षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः
सत्यधर्मरतः श्रीमान् संग्रहानुग्रहे रतः। देशकालविभागज्ञः सर्वलोकप्रियंवदः
भ्राता चास्य च वैमात्रः सौमित्रिरमितप्रभः। अनुरागेण रूपेण गुणैश्चापि तथाविधः
स सुवर्णच्छविः श्रीमान् रामः श्यामो महायशाः। तावुभौ नरशार्दूलौ त्वद्दर्शनकृतोत्सवौ
विचिन्वन्तौ महीं कृत्स्नामस्माभिः सह संगतौ। त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्। ऋष्यमूकस्य मूले तु बहुपादपसंकुले
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्। वयं च हरिराजं तं सुग्रीवं सत्यसङ्गरम्
परिचर्यामहे राज्यात् पूर्वजेनावरोपितम्। ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ
ऋष्यमूकस्य शैलस्य रम्यं देशमुपागतौ। स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः
अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः। ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः
तयोः समीपं मामेव प्रेषयामास सत्वरम्। तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः। तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ। निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने
तयोरन्योन्यसम्भाषाद् भृशं प्रीतिरजायत। तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ
परस्परकृताश्वासौ कथया पूर्ववृत्तया। तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः