अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम्
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा
सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन्
आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्। स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान्मृगरूपेण राघवम्
शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्। अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान्
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्। रामस्य च सखा देवि सुग्रीवो नाम वानरः
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्। नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता। नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम्
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्। अहं सुग्रीवसचिवो हनूमान् नाम वानरः
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्। कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्। नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥५-
तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा
यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर। तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्
कीदृशं तस्य संस्थानं रूपं तस्य च कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे
एवमुक्तस्तु वैदेह्या हनूमान् मारुतात्मजः। ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि। भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै। लक्षितानि विशालाक्षि वदतः शृणु तानि मे
रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः। रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे
तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः। बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता। रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता। मर्यादानां च लोकस्य कर्ता कारयिता च सः
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः। साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्
राजनीत्यां विनीतश्च ब्राह्मणानामुपासकः। ज्ञानवान् शीलसम्पन्नो विनीतश्च परंतपः
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः। धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः