मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्। उत्पादयसि मे भूयः संतापं तन्न शोभनम्
स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्। जनस्थाने मया दृष्टस्त्वं स एव हि रावणः
उपवासकृशां दीनां कामरूप निशाचर। संतापयसि मां भूयः संतापं तन्न शोभनम्
अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे
गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
अहो स्वप्नस्य सुखता याहमेव चिराहृता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम
किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्। उन्मादजो विकारो वा स्यादयं मृगतृष्णिका
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः। सम्बुध्ये चाहमात्मानमिमं चापि वनौकसम्
इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम्। रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा। न प्रतिव्याजहाराथ वानरं जनकात्मजा
सीताया निश्चितं बुद्ध्वा हनूमान् मारुतात्मजः। श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयन्
आदित्य इव तेजस्वी लोककान्तः शशी यथा। राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः। सत्यवादी मधुरवाग् देवो वाचस्पतिर्यथा
रूपवान् सुभगः श्रीमान् कंदर्प इव मूर्तिमान्। स्थानक्रोधे प्रहर्ता च श्रेष्ठो लोके महारथः
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः। अपक्रम्याश्रमपदान्मृगरूपेण राघवम्
शून्ये येनापनीतासि तस्य द्रक्ष्यसि तत्फलम्। अचिराद् रावणं संख्ये यो वधिष्यति वीर्यवान्
क्रोधप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः। तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः
अभिवाद्य महाबाहुः स त्वां कौशलमब्रवीत्। रामस्य च सखा देवि सुग्रीवो नाम वानरः
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्। नित्यं स्मरति ते रामः ससुग्रीवः सलक्ष्मणः
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता। नचिराद् द्रक्ष्यसे रामं लक्ष्मणं च महारथम्
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम्। अहं सुग्रीवसचिवो हनूमान् नाम वानरः
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्। कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्। नाहमस्मि तथा देवि यथा मामवगच्छसि। विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम
thumb|पञ्चत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे पञ्चत्रिंशः सर्गः ॥५-
तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्। उवाच वचनं सान्त्वमिदं मधुरया गिरा
यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर। तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्
कीदृशं तस्य संस्थानं रूपं तस्य च कीदृशम्। कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे