स विहायोत्तरीयाणि महार्हाणि महायशाः। विसृज्य मनसा राज्यं जनन्यै मां समादिशत्
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी। नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः। पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः। प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम्
वसतो दण्डकारण्ये तस्याहममितौजसः। रक्षसापहृता भार्या रावणेन दुरात्मना
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः। ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्
thumb|चतुस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥५-
तस्यास्तद् वचनं श्रुत्वा हनूमान् हरिपुंगवः। दुःखाद् दुःखाभिभूतायाः सान्त्वमुत्तरमब्रवीत्
अहं रामस्य संदेशाद् देवि दूतस्तवागतः। वैदेहि कुशली रामः स त्वां कौशलमब्रवीत्
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः। स त्वां दाशरथी रामो देवि कौशलमब्रवीत्
लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः। कृतवाञ्छोकसंतप्तः शिरसा तेऽभिवादनम्
सा तयोः कुशलं देवी निशम्य नरसिंहयोः। प्रतिसंहृष्टसर्वांगी हनूमन्तमथाब्रवीत्
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि
तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता। परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः
तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः। सीतायाः शोकतप्तायाः समीपमुपचक्रमे
यथा यथा समीपं स हनूमानुपसर्पति। तथा तथा रावणं सा तं सीता परिशङ्कते
अहो धिग् धिक्कृतमिदं कथितं हि यदस्य मे। रूपान्तरमुपागम्य स एवायं हि रावणः
तामशोकस्य शाखां तु विमुक्त्वा शोककर्शिता। तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्
अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्। सा चैनं भयसंत्रस्ता भूयो नैनमुदैक्षत
तं दृष्ट्वा वन्दमानं च सीता शशिनिभानना। अब्रवीद् दीर्घमुच्छ्वस्य वानरं मधुरस्वरा
मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्। उत्पादयसि मे भूयः संतापं तन्न शोभनम्
स्वं परित्यज्य रूपं यः परिव्राजकरूपवान्। जनस्थाने मया दृष्टस्त्वं स एव हि रावणः
उपवासकृशां दीनां कामरूप निशाचर। संतापयसि मां भूयः संतापं तन्न शोभनम्
अथवा नैतदेवं हि यन्मया परिशङ्कितम्। मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात्
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते। पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे
गुणान् रामस्य कथय प्रियस्य मम वानर। चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
अहो स्वप्नस्य सुखता याहमेव चिराहृता। प्रेषितं नाम पश्यामि राघवेण वनौकसम्
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्। पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्। न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम
किं नु स्याच्चित्तमोहोऽयं भवेद् वातगतिस्त्वियम्। उन्मादजो विकारो वा स्यादयं मृगतृष्णिका