मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥१-४२-
इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥१-४२-
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥१-४२-
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥१-४२-
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-
thumb|त्रिचत्वारिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमतीं राम वत्सरं समुपासत ॥१-४३-
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत् ॥१-४३-
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् । शिरसा धारयिष्यामि शैलराजसुतामहम् ॥१-४३-
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्॥१-४३-
आकाशादपतद् राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥१-४३-
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् । तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥१-४३-
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-
हिमवत्प्रतिमे राम जटामण्डलगह्वरे । सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥१-४३-
नैव सा निर्गमं लेभे जटामण्डलमन्ततः । तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥१-४३-
तामपश्यत् पुनस्तत्र तपः परममास्थितः । स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥१-४३-
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति । तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥१-४३-
ह्लादिनी पावनी चैव नलिनी च तथैव च । तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥१-४३-
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥१-४३-
सप्तमी चान्वगात् तासां भगीरथरथं तदा । भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥१-४३-
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् । गगनाच्छङ्करशिरस्ततो धरणिमागता ॥१-४३-
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् । मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥१-४३-
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा । ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥१-४३-
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा । विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥१-४३-
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः । तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥१-४३-
दिदृक्षवो देवगणाः समीयुरमितौजसः । सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥१-४३-
शतादित्यमिवाभाति गगनं गततोयदम् । शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥१-४३-
विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा । पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः । क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥१-४३-
विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः । सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥१-४३-