रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपं च कथां तदर्था- मेवं प्रपश्यामि तथा शृणोमि
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥५-
सोऽवतीर्य द्रुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्
सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने
का त्वं भवसि रुद्राणां मरुतां वा वरानने। वसूनां वा वरारोहे देवता प्रतिभासि मे
किं नु चन्द्रमसा हीना पतिता विबुधालयात्। रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका
कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे। वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे। अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि
रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि। न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात्
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये। महिषी भूमिपालस्य राजकन्या च मे मता
रावणेन जनस्थानाद् बलात् प्रमथिता यदि। सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्। तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम्
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता। उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः। स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः
दुहिता जनकस्याहं वैदेहस्य महात्मनः। सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः
समा द्वादश तत्राहं राघवस्य निवेशने। भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्। अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने। कैकेयी नाम भर्तारमिदं वचनमब्रवीत्
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्। एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
यत् तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम। तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः
स राजा सत्यवाग् देव्या वरदानमनुस्मरन्। मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्
ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः। ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्। मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्। अपि जीवितहेतोर्हि रामः सत्यपराक्रमः