रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः । तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-
पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-
जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-
सीताप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-
गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् । चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् । गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-
निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया । गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-