वञ्चयित्वा वने रामं मृगरूपेण मायया। स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्
आससाद वने मित्रं सुग्रीवं नाम वानरम्। ततः स वालिनं हत्वा रामः परपुरंजयः
आयच्छत् कपिराज्यं तु सुग्रीवाय महात्मने। सुग्रीवेणाभिसंदिष्टा हरयः कामरूपिणः
दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः। अहं सम्पातिवचनाच्छतयोजनमायतम्
तस्या हेतोर्विशालाक्ष्याः समुद्रं वेगवान् प्लुतः। यथारूपां यथावर्णां यथालक्ष्मवतीं च ताम्
अश्रौषं राघवस्याहं सेयमासादिता मया। विररामैवमुक्त्वा स वाचं वानरपुंगवः
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता। ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्। उन्नम्य वदनं भीरुः शिंशपामन्ववैक्षत
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य। स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती
सा तिर्यगूर्ध्वं च तथा ह्यधस्ता- न्निरीक्षमाणा तमचिन्त्यबुद्धिम्। ददर्श पिंगाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे द्वात्रिंशः सर्गः ॥५-
ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा। वेष्टितार्जुनवस्त्रं तं विद्युत्संघातपिंगलम्
सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्। फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्
साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम्। मैथिली चिन्तयामास विस्मयं परमं गता
अहो भीममिदं सत्त्वं वानरस्य दुरासदम्। दुर्निरीक्ष्यमिदं मत्वा पुनरेव मुमोह सा
विललाप भृशं सीता करुणं भयमोहिता। राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी
रुरोद सहसा सीता मन्दमन्दस्वरा सती। साथ दृष्ट्वा हरिवरं विनीतवदुपागतम्। मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी
सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम्। ददर्श पिंगप्रवरं महार्हं वातात्मजं बुद्धिमतां वरिष्ठम्
सा तं समीक्ष्यैव भृशं विपन्ना गतासुकल्पेव बभूव सीता। चिरेण संज्ञां प्रतिलभ्य चैवं विचिन्तयामास विशालनेत्रा
स्वप्नो मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः। स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः
स्वप्नो हि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः। सुखं हि मे नास्ति यतो विहीना तेनेन्दुपूर्णप्रतिमाननेन
रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव। तस्यानुरूपं च कथां तदर्था- मेवं प्रपश्यामि तथा शृणोमि
अहं हि तस्याद्य मनोभवेन सम्पीडिता तद्गतसर्वभावा। विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि
मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्यापि वितर्कयामि। किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्
नमोऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय। अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथास्तु नान्यथा
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥५-
सोऽवतीर्य द्रुमात् तस्माद् विद्रुमप्रतिमाननः। विनीतवेषः कृपणः प्रणिपत्योपसृत्य च
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः। शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि। द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्। पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्
सुराणामसुराणां च नागगन्धर्वरक्षसाम्। यक्षाणां किंनराणां च का त्वं भवसि शोभने