तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने
विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः
एष दोषो महान् हि स्यान्मम सीताभिभाषणे। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च। इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्। नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम्
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा सीता तथा सर्वं समादधे
इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकत्रिंशः सर्गः ॥५-
एवं बहुविधां चिन्तां चिन्तयित्वा महामतिः। संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह
राजा दशरथो नाम रथकुञ्जरवाजिमान्। पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः
राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभिः समः। चक्रवर्तिकुले जातः पुरंदरसमो बले
अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः। मुख्यस्येक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः। पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः। रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्
रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता। रक्षिता जीवलोकस्य धर्मस्य च परंतपः
तस्य सत्याभिसंधस्य वृद्धस्य वचनात् पितुः। सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्
तेन तत्र महारण्ये मृगयां परिधावता। राक्षसा निहताः शूरा बहवः कामरूपिणः
जनस्थानवधं श्रुत्वा निहतौ खरदूषणौ। ततस्त्वमर्षापहृता जानकी रावणेन तु