सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा
यदि वोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य संतापबहुलामिमाम्
अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता
सेयमालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानाना मां विशालाक्षी रावणं कामरूपिणम्
सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेयादन्तकोपमः
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने
विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः
एष दोषो महान् हि स्यान्मम सीताभिभाषणे। प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे
भूताश्चार्था विरुध्यन्त देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
न विनश्येत् कथं कार्यं वैक्लव्यं न कथं मम। लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च। इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम्
राममक्लिष्टकर्माणं सुबन्धुमनुकीर्तयन्। नैनामुद्वेजयिष्यामि तद्बन्धुगतचेतनाम्
इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः। शुभानि धर्मयुक्तानि वचनानि समर्पयन्
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्। श्रद्धास्यति यथा सीता तथा सर्वं समादधे
इति स बहुविधं महाप्रभावो जगतिपतेः प्रमदामवेक्षमाणः। मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकत्रिंशः सर्गः ॥५-