चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम्
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्
गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमपश्यन्ती जानकी जीवितं त्यजेत्
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्
अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्
सीतासंदेशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रोधतीव्रेण चक्षुषा
यदि वोद्योजयिष्यामि भर्तारं रामकारणात्। व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति
अन्तरं त्वहमासाद्य राक्षसीनामवस्थितः। शनैराश्वासयाम्यद्य संतापबहुलामिमाम्
अहं ह्यतितनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्। रावणं मन्यमाना मां सीता भीता भविष्यति
अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्। मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता
सेयमालोक्य मे रूपं जानकी भाषितं तथा। रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासमुपैष्यति
ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानाना मां विशालाक्षी रावणं कामरूपिणम्
सीतया च कृते शब्दे सहसा राक्षसीगणः। नानाप्रहरणो घोरः समेयादन्तकोपमः
ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं महाबलाः
तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्। दृष्ट्वा च परिधावन्तं भवेयुः परिशङ्किताः
मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्। राक्षस्यो भयवित्रस्ता भवेयुर्विकृतस्वराः
ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि। राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
ते शूलशरनिस्त्रिंशविविधायुधपाणयः। आपतेयुर्विमर्देऽस्मिन् वेगेनोद्वेगकारणात्
संरुद्धस्तैस्तु परितो विधमे राक्षसं बलम्। शक्नुयां न तु सम्प्राप्तुं परं पारं महोदधेः
मां वा गृह्णीयुरावृत्य बहवः शीघ्रकारिणः। स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते। सागरेण परिक्षिप्ते गुप्ते वसति जानकी
विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे। नान्यं पश्यामि रामस्य सहायं कार्यसाधने
विमृशंश्च न पश्यामि यो हते मयि वानरः। शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्। न तु शक्ष्याम्यहं प्राप्तुं परं पारं महोदधेः