मोघो हि धर्मश्चरितो ममायं तथैकपत्नीत्वमिदं निरर्थकम्। या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च। स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः संरंस्यसे वीतभयः कृतार्थः
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा। मोघं चरित्वाथ तपो व्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम्
संजीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि। विषस्य दाता न तु मेऽस्ति कश्चि- च्छस्त्रस्य वा वेश्मनि राक्षसस्य
शोकाभितप्ता बहुधा विचिन्त्य सीताथ वेणीग्रथनं गृहीत्वा। उद्बद्ध्य वेण्युद्ग्रथनेन शीघ्र- महं गमिष्यामि यमस्य मूलम्
उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वा च नगस्य तस्य। तस्यास्तु रामं परिचिन्तयन्त्या रामानुजं स्वं च कुलं शुभांग्याः
तस्या विशोकानि तदा बहूनि धैर्यार्जितानि प्रवराणि लोके। प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥५-
तथागतां तां व्यथितामनिन्दितां व्यतीतहर्षां परिदीनमानसाम्। शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपसेविनः
तस्याः शुभं वाममरालपक्ष्म- राज्यावृतं कृष्णविशालशुक्लम्। प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्
भुजश्च चार्वञ्चितवृत्तपीनः परार्घ्यकालागुरुचन्दनार्हः। अनुत्तमेनाघ्युषितः प्रियेण चिरेण वामः समवेपताशु
गजेन्द्रहस्तप्रतिमश्च पीन- स्तयोर्द्वयोः संहतयोस्तु जातः। प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे
शुभं पुनर्हेमसमानवर्ण- मीषद्रजोध्वस्तमिवातुलाक्ष्याः। वासः स्थितायाः शिखराग्रदन्त्याः किंचित् परिस्रंसत चारुगात्र्याः
एतैर्निमित्तैरपरैश्च सुभ्रूः संचोदिता प्रागपि साधुसिद्धैः। वातातपक्लान्तमिव प्रणष्टं वर्षेण बीजं प्रतिसंजहर्ष
तस्याः पुनर्बिम्बफलोपमोष्ठं स्वक्षिभ्रुकेशान्तमरालपक्ष्म। वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः
सा वीतशोका व्यपनीततन्द्रा शान्तज्वरा हर्षविबुद्धसत्त्वा। अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन
thumb|त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे त्रिंशः सर्गः ॥५-
हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जितम्
अवेक्षमाणस्तां देवीं देवतामिव नन्दने। ततो बहुविधां चिन्तां चिन्तयामास वानरः
यां कपीनां सहस्राणि सुबहून्ययुतानि च। दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया
चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता। गूढेन चरता तावदवेक्षितमिदं मया
राक्षसानां विशेषश्च पुरी चेयं निरीक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च
यथा तस्याप्रमेयस्य सर्वसत्त्वदयावतः। समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम्
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्
यदि ह्यहं सतीमेनां शोकोपहतचेतनाम्। अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्
गते हि मयि तत्रेयं राजपुत्री यशस्विनी। परित्राणमपश्यन्ती जानकी जीवितं त्यजेत्
यथा च स महाबाहुः पूर्णचन्द्रनिभाननः। समाश्वासयितुं न्याय्यः सीतादर्शनलालसः
निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषितम्। कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्
अनेन रात्रिशेषेण यदि नाश्वास्यते मया। सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्
रामस्तु यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः। किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्